Asit Krit Shiv Stotram असितकृतं शिवस्तोत्रम् - a podcast by RaJaT JaiN

from 2022-03-26T05:06:29

:: ::

Asit Krit
Shiv Stotram असितकृतं शिवस्तोत्रम् ★ जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च | योगिन्द्राणां च योगीन्द्र गुरुणां गुरवे नमः ॥ १ ॥

मृत्योर्मृत्युस्वरुपेण मृत्युसंसारखंडन | मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु || २ ||

कालरुपं कलयतां कालकालेश कारण कालादतीत कालस्य कालकाल नमोऽस्तु || ३ ||

गुणातीत गुणाधार गुणबीज गुणात्मक गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४ ॥

ब्रह्ममस्वरूप ब्रह्मज्ञ ब्रह्मभावनतत्पर | ब्रह्मबीजस्वरुपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५ ॥

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः दीनवत् साश्रुनेत्रश्च पुलकाञ्जितविग्रहः || ६ || असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् वर्षमेकं हविश्याशी शङ्करस्य महात्मनः ॥ ७ ॥

स लभेद् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् | भवेदधनाढ्यो दुःखी च मूको भवति पण्डितः || ८

अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् इहलोके सुखं भुक्त्वा यात्यन्ते शिवसंनिधिम् || ९

॥ इति श्रीब्रह्मवैवर्तपुराणे असितकृतं शिवस्तोत्रं सम्पूर्णम् ॥

Further episodes of Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Further podcasts by RaJaT JaiN

Website of RaJaT JaiN