Ganesh Ashtakam गणेश अष्टकम् - a podcast by RaJaT JaiN

from 2023-12-12T09:05:26

:: ::

Ganesh Ashtakam गणेश अष्टकम् ★
यतोऽनन्तशक्तेरनंताश्च जीवा
यतोनिर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं
सदा तं गणेशं नमामो भजाम: ।।1।।

यतश्रचाविरासोज्जगत्सर्वमेतत्
तथाऽब्जासनो विश्र्वगो विश्र्वगोप्ता ।
तथेंद्रादयो देवसंघा मनुष्या:
सदा तं गणेशं नमामो भजाम: ।।2।।

यतो वहिनभानू भवो भूर्जलं च
यत: सागराश्र्चन्द्रमा व्योम वायु: ।
यत: स्थावरा जंगमा वृक्षसंघा
सदा तं गणेशं नमामो भजाम: ।।3।।

यतो दानवा: किन्नरा यक्षसंघा
यतश्र्चारणा वारणा: श्रवापदाश्र्च ।
यत: पक्षिकीटा यतो वीरूधश्र्च
सदा तं गणेशं नमामो भजाम: ।।4।।

यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यत:
संपदो भक्ति सन्तोषिका: स्यु: ।
यतो यत: कार्यसिद्धि
सदा तं गणेश नमामो भजाम: ।।5।।

यत: पुत्रसंपद्यतो वांछितार्थो यतोऽभक्तिाविघ्नास्तथाऽनेकरूपा: ।
यत: शोकमोहौ यत: काम एव
सदा तं गणेशं नमामो भजाम: ।।6।।

यतोऽनंतशक्ति: स शेषो वभूव धराधारणेऽनेकरुपे च शक्त: ।
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजाम: ।।7।।

यतो वेदवाचोऽतिकुंठा मनोभि:
सदा नेति नेतिति यत्ता ग्रणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजाम: ।।8।।

श्री गणेश उवाच
नुनरुचे गणाधीश: स्तोत्रमेतत्पठेन्नर: ।
त्रिसंध्यं त्रिदिनं तस्य सर्वं कार्य भविष्यति ।।9।।

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुथ्र्यां तु सोऽष्टसिद्धोरवाप्नुयात् ।।10।।

य: पठेन्मासमात्रं तु दशवारं दिने दिने ।
स भोचयेद्वन्धगत राजवध्यं न संशय: ।।11।।

विद्याकामा लभेद्विद्यां पुत्रार्या पुत्रामाप्नुयात् ।
सर्ववांछितांल्लभते सर्वानेकविंशतिवारत: ।।12।।

यो जपेत्परया भक्त्या गजाननपरो नर: ।
एवमुक्त्वा ततो देवश्रचांतर्धानं गत: प्रभु: ।।13।।

Further episodes of Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Further podcasts by RaJaT JaiN

Website of RaJaT JaiN