Kali Stotram काली स्तोत्रम् - a podcast by RaJaT JaiN

from 2023-11-28T05:29:23

:: ::

Kali Stotram काली स्तोत्रम् ★
प्राग् देहस्थो यदाऽहं तव चरणयुगं नाश्रितो नाऽर्चितोऽहं

तेनाद्याकीर्तिवर्ग-र्जठरजदहनैवाद्धर्यमानो बलिष्ठैः।

क्षिप्त्वा जन्मान्तरान्न: पुनरिह भविता क्वाश्रयः क्वाऽपि सेवा
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥१॥
बाल्ये बालाऽभिलाषै-र्जडित-जडमति-र्बाललीलाप्रसक्तो

न त्वां जानामि मातः! कलिकलुषहरां भोग-मोक्षप्रदात्रीम्।

नाचारो नैव पूजा न च यजनकथा न स्मृतिर्नैव सेवा

क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥ २ ॥
प्राप्तोऽहं यौवनं चेद् विषधरसदृशैरिन्द्रियैर्दृष्टगात्रो

नष्टप्रज्ञः परस्त्री-परधन-हरणे सर्वदा साऽभिलाषः।

त्वत्पादाम्भोजयुग्मं क्षणमपि मनसा न स्मृतोऽहं कदापि

क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥ ३ ॥
प्रौढा भिक्षाभिलाषी सुत-दुहितृ-कलत्रार्थमन्नादिचेष्ट:

क्व प्राप्स्ये कुल यामीत्यनुदिनमनिशं चिन्तया भग्नदेहः ।

नो ते ध्यानं न चास्था न च भजनविधिर्नामसंकीर्तनं वा

क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥४॥
कृत्वा स्नानं दिनादौ क्वचिदपि सलिलं नो कृतं नैव पुष्पं

ते नैवेद्यादिकं च क्वचिदपि न कृतं नाऽपि भावो न भक्तिः।

न न्यासो नैव पूजा न च गुणकथनं नाऽपि चाऽर्चा कृता ते

क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥ ६॥
जानामि त्वां न चाऽहं भव-भयहरणीं सर्वसिद्धिप्रदात्रीं

नित्यानन्दोदयाढ्यां त्रितयगुणमयीं नित्यशुद्धोदयाढ्याम्।

मिथ्याकर्माभिलाषैरनुदिनमभितः पीडितो दुःखसङ्घै:

क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥ ७ ॥
कालार्भां श्यामलाङ्गीं विगलित चिकुरां खड्गमुण्डाभिरामां

त्रासत्राणेष्टदात्रीं कुणपगणशिरोमालिनीं दीर्घनेत्राम्।

संसारस्यैकसारं भवजननहरां भावितो भावनाभिः

क्षन्तव्यो मेऽपराधः प्रकटितवेदने कामरूपे कराले॥८॥
ब्रह्मा विष्णुस्तथेशः परिणमति सदा त्वत्पदाम्भोजयुग्मं

भाग्याभावान्न चाऽहं भवजननि भवत्पादयुग्मं भजामि।

नित्यं लोभ-प्रलोभैः कृतवशमतिः कामुकस्त्वा प्रयाचे

क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥९ ॥
रागद्वेषैः प्रमत्तः कलुषयुततनुः कामनाभोगलुब्धः

कार्याऽकार्याविचारी कुलमतिरहितः कौलसङ्खर्विहीनः।

क्व ध्यानं ते क्व चाऽर्चा क्व च मनु जपन्नैव किञ्चित् कृतोऽहं

क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥१०॥
रोगी दुःखी दरिद्रः परवशकृपणः पांशुल: पापचेता
निद्रालस्यप्रसक्तः सुजठरभरणे व्याकुलः कल्पितात्मा।
किं ते पूजाविधानं त्वयि क्व च नुमतिः क्वानुरागः क्व चास्था
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥११॥
मिथ्याव्यामोहरागैः परिवृतमनसः क्लेशसङ्खान्वितस्य
क्षुन्निद्रौघान्वितस्य स्मरणविरहिणः पापकर्मप्रवृते: ।
दारिद्युस्य क्व धर्मः क्व च जननि रुचिः क्व स्थितिः साधुसङ्गै:
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥१२॥
मातस्तातस्य देहाज्जननि जठरगः संस्थितस्त्वद्वशेऽह
त्वं हर्त्रा कारयित्री करणगुणमयी कर्महेतुस्वरूपा।
त्वं बुद्धिश्चित्तसंस्थाऽप्यहमतिभवती सर्वमेतत् क्षमस्व
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥१३॥
त्वं भूमिस्त्वं जलं च त्वमसि हुतवहस्त्वं जगद्वायुरूपा
त्वं चाऽऽकाशं मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा।
आत्मा त्वं चाऽसि मातः! परमसि भवती त्वत्परं नैव किञ्चित्
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥१४॥
त्वं काली त्वं च तारा त्वमसि गिरिसुता सुन्दरी भैरवी त्वं।
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं लक्ष्मीः शिवा त्वम्।
धूमा मातङ्गिनी त्वं त्वमसि च बगला मङ्गलादिस्तवाख्या
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले॥१५॥
|| काली-स्तोत्रम् फलश्रुतिः ||

स्तोत्रणानेन देवीं परिणमति जनो यः सदा भक्तियुक्तो
दुष्कृत्या दुर्गसङ्घ परितरति शतं विघ्नता नाशमेति।
नाधिव्याधिः कदाचिद् भवति यदि पुन: सर्वदा सापराध:
सर्वं तत्कामरूपे त्रिभुवनजननि क्षामये पुत्रबुद्धया॥१६॥
ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा
निःपापी नि:कलङ्की कुलपतिकुशलः सत्यवाग् धार्मिकश्च।
नित्यानन्दो दयाढयः पशुगणविमुखः सत्पथाचारशील:
संसाराब्धिं सुखेन प्रतरित गिरिजापाद युग्मावलम्बात्॥१७॥ ★
॥ इति काली-स्तोत्रम् संपूर्णम् ।।

Further episodes of Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Further podcasts by RaJaT JaiN

Website of RaJaT JaiN